Sri Stavah is a hymn representing the qualities of Goddess Mahalakshmi. Sri is the goddess of wealth, fortune, and prosperity.
She is endowed with six auspicious and divine qualities, or gunas, and is the divine strength of Vishnu. Sri is also the other name of Goddess Mahalakshmi.
She is said to bring good luck in life. Goddess Laxmi is one of the most worshiped deities in the Hindu religion, believed to help in acquiring wealth, status, greatness, and fame.
She is the wife and shakti of Vishnu. Lakshmi is considered another aspect of the same supreme goddess principle in the Shaktism tradition of Hinduism.
Lakshmi is depicted in Indian art as an elegantly dressed, prosperity-showering golden-colored woman with an owl as her vehicle, signifying the importance of economic activity in the maintenance of life, her ability to move, work and prevail in confusing darkness.
She typically stands or sits like a yogin on a lotus pedestal and holds a lotus in her hand, a symbolism for fortune, self-knowledge, and spiritual liberation.
Her iconography shows her with four hands, which represent the four goals of human life considered important to the Hindu way of life: dharma, kama, artha, and moksha.
Sri is considered another aspect of the same supreme goddess principle in the Shaktism tradition of Hinduism.
Those who chant this prayer every morning with devotion for the Sri who was born from the churning of the primordial ocean attain abundance, having attained a peaceful life, wealth, and a fruitful n fulfilling life.
Sri Stavah Text
श्रीश्रीस्तवः ॥
स्वस्ति श्रीर्दिशतादशेषजगतां स्वर्गापवर्गस्थितीः
स्वर्गं दुर्गतिमापवर्गिकपदं सर्वं च कुर्वन्हरिः ।
यस्या वीक्ष्य मुखं तदिङ्गितपराधीनो विधत्तेऽखिलं
क्रीडेयं खलु नान्यथाऽस्य रसदा स्यादैकरस्यात्तया ॥ १॥
हे श्रीर्देवि समस्तलोकजननि त्वां स्तोतुमीहामहे
युक्तां भावय भारतीं प्रगुणय प्रेमप्रधानां धियम् ।
भक्तिं बन्धय नन्दयाश्रितमिमं दासं जनं तावकं
लक्ष्यं लक्ष्मि कटाक्षवीचिविसृतेस्ते स्याम चामी वयम् ॥ २॥
स्तोत्रं नाम किमामनन्ति कवयो यद्यन्यदीयान्गुणानन्यत्र
त्वसतोऽधिरोप्य भणितिः सा तर्हि वन्ध्या त्वयि ।
सम्यक्सत्यगुणाभिवर्णनमथो ब्रूयुः कथं तादृशी
वाग्वाचस्पतिनाप्यशक्यरचना त्वत्सद्गुणार्णोनिधौ ॥ ३॥
ये वाचां मनसां च दुर्ग्रहतया ख्याता गुणास्तावकास्तानेव
प्रति साम्बुजिह्वमुदिता यन्मामिका भारती ।
हास्यं तत्तु न मन्महे न हि चकोर्येकाऽखिलां चन्द्रिकां
नालं पातुमिति प्रगृह्य रसनामासीत सत्यां तृषि ॥ ४॥
क्षोदीयानपि दुष्टबुद्धिरपि निःस्नेहोऽप्यनीहोऽपि
ते कीर्तिं देवि लिहन्नहं न च बिभेम्यज्ञो न जिह्रेमि च ।
दुष्येत्सा तु न तावता न हि शुना लीढाऽपि भागीरथी
दुष्येच्चापि न लज्जते न च बिभेत्यार्तिस्तु शाम्येच्छुनः ॥ ५॥
ऐश्वर्यं महदेव वाऽल्पमथवा दृश्येत पुंसां हि
यत्तलक्ष्म्याः समुदीक्षणात्तव यतः सार्वत्रिकं वर्तते ।
तेनैतेन न विस्मयेमहि जगन्नाथोऽपि नारायणो धन्यं
मन्यत ईक्षणात्तव यतः स्वात्मानमात्मेश्वरः ॥ ६॥
ऐश्वर्यं यदशेषपुंसि यदिदं सौन्दर्यलावण्ययो
रूपं यच्च हि मङ्गलं किमपि यल्लोके सदित्युच्यते ।
तत्सर्वं त्वदधीनमेव यदतः श्रीरित्यभेदेन वा यद्वा
श्रीमदितीदृशेन वचसा देवि प्रथामश्नुते ॥ ७॥
देवि त्वन्महिमावधिर्न हरिणा नापि त्वया ज्ञायते
यद्यप्येवमथापि नैव युवयोः सर्वज्ञता हीयते ।
यन्नास्त्येव तदज्ञतामनुगुणां सर्वज्ञताया
विदुर्व्योमाम्भोजमिदन्तया खलु विदन् भ्रान्तोऽयमित्युच्यते ॥ ८॥
लोके वनस्पतिबृहस्पतितारतम्यं
यस्याः कटाक्षपरिणाममुदाहरन्ति ।
सा भारती भगवती तु यदीयदासी
तां देवदेवमहिषीं श्रियमाश्रयामः ॥ ९॥
यस्याः कटाक्षमृदुवीक्षणदीक्षितेन
सद्यः समुल्लसितपल्लवमुल्ललास ।
विश्वं विपर्ययसमुत्थविपर्ययं त्वां
तां देवदेवमहिषीं श्रियमाश्रयामः ॥ १०॥
॥ इति श्री कुरेश श्रीवत्सांकमिश्राचार्य एवं
श्री कुरनाथ श्रीवत्सचिन्हमिश्र श्रीस्तवः सम्पूर्णः ॥